Shiv Manas Puja


रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं ।
नाना रत्नविभूषितम्‌ मृगमदा मोदांकितम्‌ चंदनम ॥
जाती चम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा ।
दीपं देव दयानिधे पशुपते हृत्कल्पितम्‌ गृह्यताम्‌ ॥1॥

सौवर्णे नवरत्नखंडरचिते पात्र धृतं पायसं ।
भक्ष्मं पंचविधं पयोदधियुतं रम्भाफलं पानकम्‌ ॥
शाकानामयुतं जलं रुचिकरं कर्पूर खंडौज्ज्वलं ।
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥2॥

छत्रं चामर योर्युगं व्यजनकं चादर्शकं निमलं ।
वीणा भेरिमृदंगकाहलकला गीतं च नृत्यं तथा ॥
साष्टांग प्रणतिः स्तुति-र्बहुविधा ह्येतत्समस्तं मया ।
संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥3॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं ।
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ॥
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो ।
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्‌ ॥4॥

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम्‌ ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्री महादेव शम्भो ॥

Comments

Popular posts:

Ganpati Atharvashirsh

Nirjala Ekadashi Vrat Katha